मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५६, ऋक् १५

संहिता

यदि॑ स्तु॒तस्य॑ मरुतो अधी॒थेत्था विप्र॑स्य वा॒जिनो॒ हवी॑मन् ।
म॒क्षू रा॒यः सु॒वीर्य॑स्य दात॒ नू चि॒द्यम॒न्य आ॒दभ॒दरा॑वा ॥

पदपाठः

यदि॑ । स्तु॒तस्य॑ । म॒रु॒तः॒ । अ॒धि॒ऽइ॒थ । इ॒त्था । विप्र॑स्य । वा॒जिनः॑ । हवी॑मन् ।
म॒क्षु । रा॒यः । सु॒ऽवीर्य॑स्य । दा॒त॒ । नु । चि॒त् । यम् । अ॒न्यः । आ॒ऽदभ॑त् । अरा॑वा ॥

सायणभाष्यम्

वाजिनोहविर्लक्षणान्नवतः विप्रस्य मेधाविनोमम संबन्धिनि हवीमन् हविष्मति हविषायुक्ते स्तोत्रे क्रियमाणे सति हे मरुतोयूयं यदि यस्मात् कारणात् स्तुतस्य स्तुतं मदीयं स्तोत्रं इत्था इत्थमनेन प्रकारेण अधीथ अवगच्छथ तस्मात् कारणात् हे मरुतो यूयं सुवीर्गस्य शोभनपुत्रोपेतस्य रायः रायं धनं द्वितीयार्थेषष्ठी मक्षु शीघ्रं दात दत्त अरावा अरातिः शत्रुभूतः अन्योजनः यं रायं नूचिदादभत् नैवाभिहन्यात् तद्धनमस्मभ्यं दत्तेति संबन्धः ॥ १५ ॥ मरुद्भ्यः क्रीळिभ्यः सप्तकपालमित्यत्यासइतियाज्या सूत्रितंच-अत्यासोनयेमरुतः स्वं चो जुष्टोदमूनाइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४