मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५६, ऋक् १८

संहिता

आ वो॒ होता॑ जोहवीति स॒त्तः स॒त्राचीं॑ रा॒तिं म॑रुतो गृणा॒नः ।
य ईव॑तो वृषणो॒ अस्ति॑ गो॒पाः सो अद्व॑यावी हवते व उ॒क्थैः ॥

पदपाठः

आ । वः॒ । होता॑ । जो॒ह॒वी॒ति॒ । स॒त्तः । स॒त्राची॑ । रा॒तिम् । म॒रु॒तः॒ । गृ॒णा॒नः ।
यः । ईव॑तः । वृ॒ष॒णः॒ । अस्ति॑ । गो॒पाः । सः । अद्व॑यावी । ह॒व॒ते॒ । वः॒ । उ॒क्थैः ॥

सायणभाष्यम्

हे मरुतः सत्तः होतृषदने निषण्णोस्मदीयोहोता सत्राचीं सर्वतोगमनशीलं राति त्वदीयं दानं गृणानः स्तुवन् वोयुष्मान् आजोहवीति भृशमाह्वयति । हे वृषणः कामानां वर्षितारोमरुतः योहोता ईवतोगच्छतोव्यापारवतोयजमानस्य गोपाअस्ति युष्मदाह्वाननिमित्तेन रक्षकोभवति सहोता अद्वयावी मायारहितः सन् वोयुष्मान् उक्थैः स्तोत्रैर्हवते स्तौति ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५