मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५६, ऋक् १९

संहिता

इ॒मे तु॒रं म॒रुतो॑ रामयन्ती॒मे सह॒ः सह॑स॒ आ न॑मन्ति ।
इ॒मे शंसं॑ वनुष्य॒तो नि पा॑न्ति गु॒रु द्वेषो॒ अर॑रुषे दधन्ति ॥

पदपाठः

इ॒मे । तु॒रम् । म॒रुतः॑ । र॒म॒य॒न्ति॒ । इ॒मे । सहः॑ । सह॑सः । आ । न॒म॒न्ति॒ ।
इ॒मे । शंस॑म् । व॒नु॒ष्य॒तः । नि । पा॒न्ति॒ । गु॒रु । द्वेषः॑ । अर॑रुषे । द॒ध॒न्ति॒ ॥

सायणभाष्यम्

इमे ईदृशोमरुतः तुरं कर्मसु क्षिप्रवन्त् यजमानं रमयन्ति क्रीडयन्ति इमे मरुतः सहः सहसा बलेन सहसोबलवतोजनान् आनमन्ति इमे मरुतः वनुष्यतोहिंसकात् पुरुषात् शंसं शंसकं स्तोतारं निपान्ति नितरांपालयन्ति अररुषे हविरप्रयच्छते जनाय गुरु महत् द्वेषः अप्रियं दधन्ति कुर्वन्ति ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५