मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५६, ऋक् २०

संहिता

इ॒मे र॒ध्रं चि॑न्म॒रुतो॑ जुनन्ति॒ भृमिं॑ चि॒द्यथा॒ वस॑वो जु॒षन्त॑ ।
अप॑ बाधध्वं वृषण॒स्तमां॑सि ध॒त्त विश्वं॒ तन॑यं तो॒कम॒स्मे ॥

पदपाठः

इ॒मे । र॒ध्रम् । चि॒त् । म॒रुतः॑ । जु॒न॒न्ति॒ । भृमि॑म् । चि॒त् । यथा॑ । वस॑वः । जु॒षन्त॑ ।
अप॑ । बा॒ध॒ध्व॒म् । वृ॒ष॒णः॒ । तमां॑सि । ध॒त्त । विश्व॑म् । तन॑यम् । तो॒कम् । अ॒स्मे इति॑ ॥

सायणभाष्यम्

इमे मरुतः रध्रं चित् समृद्धमपि जनं जुनन्ति प्रेरयन्ति भृमिं चित् भ्रमणशीलमपि दरिद्रं जुनन्ति प्रेरयन्ति वसवोवासकादेवाः युष्मान् यथा जुषन्त कामयेरन् हे वृषणः कामानांवर्षितारस्ते यूयं तमांसि अपबाधध्वं नाशयत । अपिच अस्मे अस्मभ्यं विश्वं बहुलं तोकं पुत्रं तनयं पौत्रं च धत्त प्रयच्छत ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५