सं यद्धन॑न्त म॒न्युभि॒र्जना॑स॒ः शूरा॑ य॒ह्वीष्वोष॑धीषु वि॒क्षु ।
अध॑ स्मा नो मरुतो रुद्रियासस्त्रा॒तारो॑ भूत॒ पृत॑नास्व॒र्यः ॥
सम् । यत् । हन॑न्त । म॒न्युऽभिः॑ । जना॑सः । शूराः॑ । य॒ह्वीषु॑ । ओष॑धीषु । वि॒क्षु ।
अध॑ । स्म॒ । नः॒ । म॒रु॒तः॒ । रु॒द्रि॒या॒सः॒ । त्रा॒तारः॑ । भू॒त॒ । पृत॑नासु । अ॒र्यः ॥
यद्यदा शूराविक्रान्ताः जनासोजनाः यह्वीषु महतीषु ओषधीषु विक्षु प्रजासु च जेतव्यासु मन्युभिः कोपैः अभिमानैर्वा संहनन्त संगच्छ- न्ते अध तदानीं हे रुद्रियासोरुद्रपुत्रा हेमरुतः यूयं प्रुतनासु यद्धेषु अर्यः अरेः शत्रोः सकाशात् नोस्माकं त्रातारो भूत रक्षकाभवत । स्मेति- पूरणः ॥ २२ ॥