मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५६, ऋक् २३

संहिता

भूरि॑ चक्र मरुत॒ः पित्र्या॑ण्यु॒क्थानि॒ या वः॑ श॒स्यन्ते॑ पु॒रा चि॑त् ।
म॒रुद्भि॑रु॒ग्रः पृत॑नासु॒ साळ्हा॑ म॒रुद्भि॒रित्सनि॑ता॒ वाज॒मर्वा॑ ॥

पदपाठः

भूरि॑ । च॒क्र॒ । म॒रु॒तः॒ । पित्र्या॑णि । उ॒क्थानि॑ । या । वः॒ । श॒स्यन्ते॑ । पु॒रा । चि॒त् ।
म॒रुत्ऽभिः॑ । उ॒ग्रः । पृत॑नासु । साळ्हा॑ । म॒रुत्ऽभिः॑ । इत् । सनि॑ता । वाज॑म् । अर्वा॑ ॥

सायणभाष्यम्

हे मरुतोयूयं भूरि भूरीणि बहूनि पित्र्याणि अस्मत् पितृसंबन्धीनि धनदानादीनि कर्माणि चक्र कृतवन्तोभवत पुराचित् पूर्वकालेपि वो- युष्माकं उक्थानि प्रशस्यानि या यानि कर्माणि शस्यन्ते प्रख्यायन्ते तानि चक्रेति संबन्धः । उग्रओजस्वी पृतनासु युद्धेषु मरुद्भिर्युष्मा- भिर्हेतुभिः साह्ळा शत्रूणामभिभविता भवति । मरुद्भिरित् मरुद्भिर्युष्माभिरेव हेतुभिः अर्वा स्तोत्रैरभिगन्ता वाजमन्नं सनिता संभक्ता भवति यद्वा अर्षा अश्वः वाजं युद्धं सनिता भवति ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६