मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५६, ऋक् २५

संहिता

तन्न॒ इन्द्रो॒ वरु॑णो मि॒त्रो अ॒ग्निराप॒ ओष॑धीर्व॒निनो॑ जुषन्त ।
शर्म॑न्त्स्याम म॒रुता॑मु॒पस्थे॑ यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

तत् । नः॒ । इन्द्रः॑ । वरु॑णः । मि॒त्रः । अ॒ग्निः । आपः॑ । ओष॑धीः । व॒निनः॑ । जु॒ष॒न्त॒ ।
शर्म॑न् । स्या॒म॒ । म॒रुता॑म् । उ॒पऽस्थे॑ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

पूर्वं व्याख्यातेयं अक्षरार्थस्तु इन्द्रादयोदेवाः अस्मदीयं स्तोत्रं सेवन्तां मरुतामुपस्थाने वर्तमाना वयं सुखे स्याम हे मरुतोयूयं सर्वदास्मन् अविनाशैः पालयत ॥ २५ ॥

मध्वोवइति सप्तर्चं द्वितीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं मरुद्देवताकं मध्वःसप्तेत्यनुक्रान्तम् । दशरात्रे षष्ठेहनि आग्निमारुतेइदं मारुत- निविद्धानं सूत्रितंच-मध्वोवोनाम सप्रत्नथेत्याग्निमारुतमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६