मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५७, ऋक् १

संहिता

मध्वो॑ वो॒ नाम॒ मारु॑तं यजत्रा॒ः प्र य॒ज्ञेषु॒ शव॑सा मदन्ति ।
ये रे॒जय॑न्ति॒ रोद॑सी चिदु॒र्वी पिन्व॒न्त्युत्सं॒ यदया॑सुरु॒ग्राः ॥

पदपाठः

मध्वः॑ । वः॒ । नाम॑ । मारु॑तम् । य॒ज॒त्राः॒ । प्र । य॒ज्ञेषु॑ । शव॑सा । म॒द॒न्ति॒ ।
ये । रे॒जय॑न्ति । रोद॑सी॒ इति॑ । चि॒त् । उ॒र्वी इति॑ । पिन्व॑न्ति । उत्स॑म् । यत् । अया॑सुः । उ॒ग्राः ॥

सायणभाष्यम्

हे यजत्रा यजनीयामरुतः वोयुप्मदीयं मारुतं मरुत्संबन्धि नाम नामधेयं मध्वो मधवो मादयितारः स्तोतारः यज्ञेषु यागेषु शवसा बलेन प्रमदन्ति प्रकर्षेण स्तुवन्ति उच्चैः स्तुवन्तीत्यर्थः । ये मरुतः उर्वी विस्तीर्णे रोदसी चित् द्यावापृथिव्यावपि रेजयन्ति कंपयन्ति । किंच उत्सं मेघं पिन्वन्ति वर्षयन्ति उग्रा उद्गूर्णा यत् ये मरुतः आयासुः यान्ति सर्वत्रगच्छंति तेषां मरुतां यष्माकं नाम प्रमदन्तीति पूर्वेणान्वयः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७