मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५७, ऋक् ३

संहिता

नैताव॑द॒न्ये म॒रुतो॒ यथे॒मे भ्राज॑न्ते रु॒क्मैरायु॑धैस्त॒नूभि॑ः ।
आ रोद॑सी विश्व॒पिशः॑ पिशा॒नाः स॑मा॒नम॒ञ्ज्य॑ञ्जते शु॒भे कम् ॥

पदपाठः

न । ए॒ताव॑त् । अ॒न्ये । म॒रुतः॑ । यथा॑ । इ॒मे । भ्राज॑न्ते । रु॒क्मैः । आयु॑धैः । त॒नूभिः॑ ।
आ । रोद॑सी॒ इति॑ । वि॒श्व॒ऽपिशः॑ । पि॒शा॒नाः । स॒मा॒नम् । अ॒ञ्जि । अ॒ञ्ज॒ते॒ । शु॒भे । कम् ॥

सायणभाष्यम्

इमे ईदृशामरुतोयथायत्परिमाणं धनादिकं ददति अन्ये मरुव्द्यतिरिक्तादेवाः एतावद्धनादिकं नदद्युरित्यर्थः । तेच रुक्मैः रोचमानैरयुधै- राभरणैः स्वकीयास्त्रैः तनूभिरात्मीयैः केवलैरंगैश्च भ्राजन्ते सर्वदा भासन्ते । कश्चिदेकवाक्यतामाह यथेमे मरुतोरुक्मादिभिः भ्राजन्ते नैतावदेतव्द्यतिरिक्ताभ्राजन्तइति । अपिच रोदसी द्यावापृथिव्यौ पिशानाः प्रकाशयन्तः विश्वपिशः व्याप्तदीप्तयः एवंभूतामरुतः शुभे शोभायै समानं सदृशरूपं अंजि आभरणं आ अंजते स्वकीयावयवेषु अभिव्यक्तीकुर्वन्ति । कमितिपूरणः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७