मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५७, ऋक् ४

संहिता

ऋध॒क्सा वो॑ मरुतो दि॒द्युद॑स्तु॒ यद्व॒ आगः॑ पुरु॒षता॒ करा॑म ।
मा व॒स्तस्या॒मपि॑ भूमा यजत्रा अ॒स्मे वो॑ अस्तु सुम॒तिश्चनि॑ष्ठा ॥

पदपाठः

ऋध॑क् । सा । वः॒ । म॒रु॒तः॒ । दि॒द्युत् । अ॒स्तु॒ । यत् । वः॒ । आगः॑ । पु॒रु॒षता॑ । करा॑म ।
मा । वः॒ । तस्या॑म् । अपि॑ । भू॒म॒ । य॒ज॒त्राः॒ । अ॒स्मे इति॑ । वः॒ । अ॒स्तु॒ । सु॒ऽम॒तिः । चनि॑ष्ठा ॥

सायणभाष्यम्

हे मरुतः वोयुष्मदीया सा प्रसिद्धा दिद्युत् हेतिरृधगस्तु अस्मत्तः पृथग्भवतु यत् यद्यपि वयं वोयुष्माकं आगः अपराधं पुरुषता पुरुषतया मनुष्यत्वेन कराम करवाम मनुष्याणां हि प्रमादः सुलभइत्यर्थः । हे यजत्रा यजनीयामरुतः वोयुष्मदीयायां तस्यां दिद्युति अपि ईषदपि माभूम चनिष्ठा अन्नवत्तमा अतिशयेनान्नदाइत्यर्थः वोयुष्मदीया सुमतिरनुग्रहबुद्धिः अस्मे अस्मास्वस्तु ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७