मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५७, ऋक् ६

संहिता

उ॒त स्तु॒तासो॑ म॒रुतो॑ व्यन्तु॒ विश्वे॑भि॒र्नाम॑भि॒र्नरो॑ ह॒वींषि॑ ।
ददा॑त नो अ॒मृत॑स्य प्र॒जायै॑ जिगृ॒त रा॒यः सू॒नृता॑ म॒घानि॑ ॥

पदपाठः

उ॒त । स्तु॒तासः॑ । म॒रुतः॑ । व्य॒न्तु॒ । विश्वे॑भिः । नाम॑ऽभिः । नरः॑ । ह॒वींषि॑ ।
ददा॑त । नः॒ । अ॒मृत॑स्य । प्र॒ऽजायै॑ । जि॒गृ॒त । रा॒यः । सू॒नृता॑ । म॒घानि॑ ॥

सायणभाष्यम्

उतापिच स्तुतासः एवमस्मभिः स्तुताः मरुतः हवींषि व्यन्तु भक्षयन्तु कीदृशाः विश्वेभिर्विश्वैः नामभिरुदकैः सहिता नरोनेतारः । शेषः प्रत्यक्षकृतः हे मरुतः नोस्मदीयायै प्रजायै संततये अमृतस्य अमृतमुदकं ददात दत्त तथा हविषोदातुर्यजमानस्य सूनृता सूनृतानि सुष्ठु नृत्यन्ति शोभनयोगानि मघानि धनानि रायः जिगृत उद्गिरत प्रयच्छतेत्यर्थः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७