मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५७, ऋक् ७

संहिता

आ स्तु॒तासो॑ मरुतो॒ विश्व॑ ऊ॒ती अच्छा॑ सू॒रीन्त्स॒र्वता॑ता जिगात ।
ये न॒स्त्मना॑ श॒तिनो॑ व॒र्धय॑न्ति यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

आ । स्तु॒तासः॑ । म॒रु॒तः॒ । विश्वे॑ । ऊ॒ती । अच्छ॑ । सू॒रीन् । स॒र्वऽता॑ता । जि॒गा॒त॒ ।
ये । नः॒ । त्मना॑ । श॒तिनः॑ । व॒र्धय॑न्ति । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

हे मरुतः स्तुतासः एवमस्माभिः स्तुताः विश्वे सर्वे यूयंऊती ऊत्या रक्षया सहिताः सूरीन् स्तोतॄन् अच्छभिलक्ष्य सर्वताता सर्वतातौ यज्ञे आजिगात आगच्छत ये मरुतः त्मना आत्मनैव नोस्मान् शतिनः शतसंख्याकान् वर्धयन्ति यथा वयं पुत्रपौत्रादिभिः शतिनोभवेम तथा- वर्धयन्तीत्यर्थः ते यूयमाजिगातेति पूर्वेणसंबंधः एवंभूतामरुतोयूयं सर्वदास्मान् पालयत ॥ ७ ॥

प्रसाकमुक्षेति षळृचं तृतीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं मरुद्देवताकं अनुक्रान्तंच-प्रसाकमुक्षेषळिति । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७