मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५८, ऋक् १

संहिता

प्र सा॑क॒मुक्षे॑ अर्चता ग॒णाय॒ यो दैव्य॑स्य॒ धाम्न॒स्तुवि॑ष्मान् ।
उ॒त क्षो॑दन्ति॒ रोद॑सी महि॒त्वा नक्ष॑न्ते॒ नाकं॒ निरृ॑तेरवं॒शात् ॥

पदपाठः

प्र । सा॒क॒म्ऽउक्षे॑ । अ॒र्च॒त॒ । ग॒णाय॑ । यः । दैव्य॑स्य । धाम्नः॑ । तुवि॑ष्मान् ।
उ॒त । क्षो॒द॒न्ति॒ । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा । नक्ष॑न्ते । नाक॑म् । निःऽऋ॑तेः । अ॒वं॒शात् ॥

सायणभाष्यम्

हे स्तोतारोयूयं साकमुक्षे संततं वर्षित्रे गणाय मरुत्समूहाय प्रार्चत स्तोत्रं प्रोच्चारयत योमरुद्गणः दैव्यस्य देवसंबन्धिनः धाम्नः स्वर्गाख्य- स्य स्थानस्य तुविष्मान् वृद्धिमान् भवति सर्वेभ्योदेवेभ्यः प्रवृद्धइत्यर्थः तस्मै गणायेति पूर्वेणसंबन्धः । उतापिच मरुतः महित्वा स्वकी- येन महत्वेन सहिताः रोदसी द्यावापृथिव्यौ क्षोदन्ति भंजंति तथा निरृतेर्भूमेः अवंशादन्तरिक्षाच्च नाकं स्वर्गं नक्षन्ते व्याप्नुवन्ति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८