मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५८, ऋक् ४

संहिता

यु॒ष्मोतो॒ विप्रो॑ मरुतः शत॒स्वी यु॒ष्मोतो॒ अर्वा॒ सहु॑रिः सह॒स्री ।
यु॒ष्मोतः॑ स॒म्राळु॒त ह॑न्ति वृ॒त्रं प्र तद्वो॑ अस्तु धूतयो दे॒ष्णम् ॥

पदपाठः

यु॒ष्माऽऊ॑तः । विप्रः॑ । म॒रु॒तः॒ । श॒त॒स्वी । यु॒ष्माऽऊ॑तः । अर्वा॑ । सहु॑रिः । स॒ह॒स्री ।
यु॒ष्माऽऊ॑तः । स॒म्ऽराट् । उ॒त । ह॒न्ति॒ । वृ॒त्रम् । प्र । तत् । वः॒ । अ॒स्तु॒ । धू॒त॒यः॒ । दे॒ष्णम् ॥

सायणभाष्यम्

हे मरुतः युष्मोतः युष्माभीरक्षितः विप्रः स्तोता शतस्वी शतसंख्योपेतधनवान् भवतियुष्मोतः युष्माभीः रक्षितः अर्वा अभिगन्ता सहुरिः शत्रूणामभिभविता स्तोता सहस्री सहस्रधनवान् भवति । युष्मोतः युष्माभीरक्षितः सम्राट् साम्राज्ययुक्तोभवति । उतापिच वृत्रं शत्रुं हन्ति युष्मद्रक्षकोहिनस्ति । हे धूतयः कंपयितारोमरुतः वोयुष्माभिर्दत्तं तत्प्रसिद्धं देष्णं धनं प्रास्तु प्रभूतं भवतु ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८