मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५८, ऋक् ५

संहिता

ताँ आ रु॒द्रस्य॑ मी॒ळ्हुषो॑ विवासे कु॒विन्नंस॑न्ते म॒रुत॒ः पुन॑र्नः ।
यत्स॒स्वर्ता॑ जिहीळि॒रे यदा॒विरव॒ तदेन॑ ईमहे तु॒राणा॑म् ॥

पदपाठः

तान् । आ । रु॒द्रस्य॑ । मी॒ळ्हुषः॑ । वि॒वा॒से॒ । कु॒वित् । नंस॑न्ते । म॒रुतः॑ । पुनः॑ । नः॒ ।
यत् । स॒स्वर्ता॑ । जि॒ही॒ळि॒रे । यत् । आ॒विः । अव॑ । तत् । एनः॑ । ई॒म॒हे॒ । तु॒राणा॑म् ॥

सायणभाष्यम्

मीह्ळुषः कामानांवर्षितुः रुद्रस्येश्वरस्य पुत्रान् तान्मरुतः आविवासे अहं होता परिचरामि ते मरुतः नःअस्माभ्यं कुवित् बहुकृत्वः पुनः भूयः नंसन्ते नमन्तां अभिमुखीभवन्तु । कुवित् शब्देनैव पुनः शब्दार्थस्य लब्धत्वात् पुनः शब्दग्रहणं क्रिमर्थं आदरार्थम् । सस्वर्ताअन्तर्नि- हितेन अप्रकाशेन यत् येन एनसा जिहीळिरे मरुतः क्रुध्येयुः आविः प्रकाशेन यत् येन एनसाच जिहीळिरे तुराणां क्षिप्राणां मरुतां संबन्धि तदुभयमेनोपराधं अवईमहे स्तोत्रेण वयमपनयामः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८