मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५९, ऋक् १

संहिता

यं त्राय॑ध्व इ॒दमि॑दं॒ देवा॑सो॒ यं च॒ नय॑थ ।
तस्मा॑ अग्ने॒ वरु॑ण॒ मित्रार्य॑म॒न्मरु॑त॒ः शर्म॑ यच्छत ॥

पदपाठः

यम् । त्राय॑ध्वे । इ॒दम्ऽइ॑दम् । देवा॑सः । यम् । च॒ । नय॑थ ।
तस्मै॑ । अ॒ग्ने॒ । वरु॑ण । मित्र॑ । अर्य॑मन् । मरु॑तः । शर्म॑ । य॒च्छ॒त॒ ॥

सायणभाष्यम्

हे देवासोदेवाः इदमिदं इतोभयहेतोः यं स्तोतारं त्रायध्वे पालयध्वे यं च स्तोतारं नयथ सन्मार्गं प्रापयथ हे अग्ने वरुण मित्र अर्यमन् हे मरुतः एवंभूता हे देवाः तस्मै स्तोत्रे शर्म सुखं यच्छत दत्त ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९