मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५९, ऋक् २

संहिता

यु॒ष्माकं॑ देवा॒ अव॒साह॑नि प्रि॒य ई॑जा॒नस्त॑रति॒ द्विषः॑ ।
प्र स क्षयं॑ तिरते॒ वि म॒हीरिषो॒ यो वो॒ वरा॑य॒ दाश॑ति ॥

पदपाठः

यु॒ष्माक॑म् । दे॒वाः॒ । अव॑सा । अह॑नि । प्रि॒ये । ई॒जा॒नः । त॒र॒ति॒ । द्विषः॑ ।
प्र । सः । क्षय॑म् । ति॒र॒ते॒ । वि । म॒हीः । इषः॑ । यः । वः॒ । वरा॑य । दाश॑ति ॥

सायणभाष्यम्

हे देवाः युष्माकं युष्मदीयेन अवसा रक्षणेन प्रिये अहनि सर्वेषां देवानां प्रियभूते सुत्याभिधाने दिवसे ईजानः इष्टवान् जनः द्विषः शत्रून् तरति आक्रामति सयजमानः क्षयं स्वकीयं निवासं प्रतिरते प्रवर्धयति । योयजमानः वोयुष्मभ्यं महीः महान्ति इषः हविर्लक्षणान्यन्नानि वराय निवारणाय यूयं नान्यत्रगच्छत अस्मदीयान्येव हवींषि स्वीकुरुतेति निरोधनं कर्तुं विदाशति विशेषेण ददाति अतएव स्वकीयं निवासं वर्धयतीत्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९