मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५९, ऋक् ४

संहिता

न॒हि व॑ ऊ॒तिः पृत॑नासु॒ मर्ध॑ति॒ यस्मा॒ अरा॑ध्वं नरः ।
अ॒भि व॒ आव॑र्त्सुम॒तिर्नवी॑यसी॒ तूयं॑ यात पिपीषवः ॥

पदपाठः

न॒हि । वः॒ । ऊ॒तिः । पृत॑नासु । मर्ध॑ति । यस्मै॑ । अरा॑ध्वम् । न॒रः॒ ।
अ॒भि । वः॒ । आ । अ॒व॒र्त् । सु॒ऽम॒तिः । नवी॑यसी । तूय॑म् । या॒त॒ । पि॒पी॒ष॒वः॒ ॥

सायणभाष्यम्

हे मरुतः वोयुष्मदीया उती रक्षा पृतनासु युद्धेषु नहि मर्धति न खलु हिनस्ति शत्रुभिः कृतां हिंसां सहतइत्यर्थः । हे नरोनतोरोयूयं यस्मै जनाय अराध्वं कामानदध्वं तं जनं न हिनस्तीति संबन्धः । नवीयसी नवतरा वोयुष्मदीया सुमतिरनुग्रहबुद्धिः अभ्यावर्त अस्मान- भ्यावर्ततां तदा हे पिपीषवः सोमपानकामा यूयमपि तूयं क्षिप्रं यात आगच्छत ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९