मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५९, ऋक् ६

संहिता

आ च॑ नो ब॒र्हिः सद॑तावि॒ता च॑ नः स्पा॒र्हाणि॒ दात॑वे॒ वसु॑ ।
अस्रे॑धन्तो मरुतः सो॒म्ये मधौ॒ स्वाहे॒ह मा॑दयाध्वै ॥

पदपाठः

आ । च॒ । नः॒ । ब॒र्हिः । सद॑त । अ॒वि॒त । च॒ । नः॒ । स्पा॒र्हाणि॑ । दात॑वे । वसु॑ ।
अस्रे॑धन्तः । म॒रु॒तः॒ । सो॒म्ये । मधौ॑ । स्वाहा॑ । इ॒ह । मा॒द॒या॒ध्वे॒ ॥

सायणभाष्यम्

हे मरुतोयूयं नोस्मदीयेबर्हिः कुशमयेबर्हिषि आसदत च उपविशत स्पार्हाणि स्पृहणीयानि वसु वसूनि धनानि दातवे अस्मभ्यं दातुं नोस्मान् अवित च आगच्छत च हे मरुतः अस्रेधन्तः अहिंसन्तोयूयं इहास्मिन्यज्ञे मधौ मदकरे सोम्ये सोमात्मके ह विषि स्वाहा स्वाहा- कारेण मादयाध्वै मादयध्वं माद्यत ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९