मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५९, ऋक् ८

संहिता

यो नो॑ मरुतो अ॒भि दु॑र्हृणा॒युस्ति॒रश्चि॒त्तानि॑ वसवो॒ जिघां॑सति ।
द्रु॒हः पाशा॒न्प्रति॒ स मु॑चीष्ट॒ तपि॑ष्ठेन॒ हन्म॑ना हन्तना॒ तम् ॥

पदपाठः

यः । नः॒ । म॒रु॒तः॒ । अ॒भि । दुः॒ऽहृ॒णा॒युः । ति॒रः । चि॒त्तानि॑ । व॒स॒वः॒ । जिघां॑सति ।
द्रु॒हः । पाशा॑न् । प्रति॑ । सः । मु॒ची॒ष्ट॒ । तपि॑ष्ठेन । हन्म॑ना । ह॒न्त॒न॒ । तम् ॥

सायणभाष्यम्

हे वसवः प्रशस्या हे मरुतः नोस्मदीयानि चित्तानि दुर्हृणायुः अशोभनं क्रुध्यन् तिरः सर्वैस्तिरस्कृतोयोजनः अभिजिघांसति आभिमुख्येन हन्तुमिच्छति सजनः द्रुहः पापानां द्रोग्धुर्वरुणस्य पाशान् अस्मासु प्रतिसमुचीष्ट बध्नीयात् यूयं तं जनं तपिष्ठेन तप्तुतमेन हन्मना हननसाधनेनायुधेन हन्तन हत हिंस्त ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०