मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५९, ऋक् ९

संहिता

सांत॑पना इ॒दं ह॒विर्मरु॑त॒स्तज्जु॑जुष्टन ।
यु॒ष्माको॒ती रि॑शादसः ॥

पदपाठः

सान्ऽत॑पनाः । इ॒दम् । ह॒विः । मरु॑तः । तत् । जु॒जु॒ष्ट॒न॒ ।
यु॒ष्माक॑ । ऊ॒ती । रि॒शा॒द॒सः॒ ॥

सायणभाष्यम्

सांतपनाः शत्रूणां संतापकाः हे मरुतः इदं प्रत्यक्षेणोपलभ्यमानं हविः युष्मभ्यं कल्पितमितिशेषः हे रिशादसः रिशतां हिंसतां असितारः रिशानामत्तारोवा यूयं युष्माक युष्माकं ऊती ऊत्या रक्षया तत्तादृशं हविर्जुजुष्टन सेवध्वम् ॥ ९ ॥

गृहमेधासइति गृहमेधीयस्य हविषोनुवाक्या सूत्रितंच- गृहमेधासआगत प्रबुध्र्यावईरतेमहांसीति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०