मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५९, ऋक् १०

संहिता

गृह॑मेधास॒ आ ग॑त॒ मरु॑तो॒ माप॑ भूतन ।
यु॒ष्माको॒ती सु॑दानवः ॥

पदपाठः

गृह॑ऽमेधासः । आ । ग॒त॒ । मरु॑तः । मा । अप॑ । भू॒त॒न॒ ।
यु॒ष्माक॑ । ऊ॒ती । सु॒ऽदा॒न॒वः॒ ॥

सायणभाष्यम्

गृहमेधासः गृहेक्रियमाणोयज्ञोयेषां ते सुदानवः शोभनदाना हे मरुतोयूयं युष्माक युष्माकं ऊती ऊत्या रक्षया युक्ताः आगत अस्मदीयं यज्ञं प्रत्यागच्छत हे मरुतः मापभूतन अपगतामाभवत भूप्राप्तवितिधातुः ॥ १० ॥

वैश्वदेवपर्वणि मारुतस्यानुवाक्या इहेहवइत्येषा सूत्रितंच-इहेहवः स्वतवसः प्रचित्रमर्कंगृणतेतुरायेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०