त्र्य॑म्बकं यजामहे सु॒गन्धिं॑ पुष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मामृता॑त् ॥
त्र्य॑म्बकम् । य॒जा॒म॒हे॒ । सु॒गन्धि॑म् । पु॒ष्टि॒ऽवर्ध॑नम् ।
उ॒र्वा॒रु॒कम्ऽइ॑व । बन्ध॑नात् । मृ॒त्योः । मु॒क्षी॒य॒ । मा । अ॒मृता॑त् ॥
अथ तैत्तिरीयभाष्ये-शोभनः शरीरगंधः पुण्यगंधोवा यस्यासौ सुगंधिः । यथा वृक्षस्य संपुष्पितस्य दूराद्गंधोवात्येवं पुण्यस्य कर्मणोदूराद्गधोवातीतिश्रुतेः । पुष्टिं शरीरं धनादिविषयां वर्धयतीति पुष्टिवर्धनस्तादृशं त्र्यंबकं यजामहे पूजयामः लोके यथोर्वारुकफलानि बंधनात् वृंतात्स्वयमेव मुच्यन्ते तद्वदहं त्र्यंबकप्रसादेन मृत्योर्मुक्षीय मोचयन् मुक्तो- भूयासं अमृताच्चिरजीवितात् स्वर्गादेर्वा मामुक्षीय । चतुर्थपादार्थमंत्रस्य तात्पर्यातिशयं दर्शयति-त्र्यंबकं यजामहइत्याह मृत्योर्मुक्षीय- मामृतादिति वावैतदाहेति ॥ १२ ॥
वेदार्थस्यप्रकाशेन तमोहार्दंनिवारयन् । पुमर्थीश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥
इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेणसायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक् संहिताभाष्ये पंचमाष्टके चतुर्थोध्यायः समाप्तः ॥ ४ ॥