मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६०, ऋक् २

संहिता

ए॒ष स्य मि॑त्रावरुणा नृ॒चक्षा॑ उ॒भे उदे॑ति॒ सूर्यो॑ अ॒भि ज्मन् ।
विश्व॑स्य स्था॒तुर्जग॑तश्च गो॒पा ऋ॒जु मर्ते॑षु वृजि॒ना च॒ पश्य॑न् ॥

पदपाठः

ए॒षः । स्यः । मि॒त्रा॒व॒रु॒णा॒ । नृ॒ऽचक्षाः॑ । उ॒भे इति॑ । उत् । ए॒ति॒ । सूर्यः॑ । अ॒भि । ज्मन् ।
विश्व॑स्य । स्था॒तुः । जग॑तः । च॒ । गो॒पाः । ऋ॒जु । मर्ते॑षु । वृ॒जि॒ना । च॒ । पश्य॑न् ॥

सायणभाष्यम्

हे मित्रावरुणा मित्रावरुणौ एषः पुरतोदृश्यमानः स्यः सः सर्वस्तुत्यत्वे प्रसिद्धः नृचक्षः नृणां मनुष्याणां द्रष्टा सूर्यः उभे द्यावापृथिव्या- वभि अभिलक्ष्यउदेति ज्मन् अन्तरिक्षे गच्छन् सविशेष्यते विश्वस्य सर्वस्य स्थातुः स्थावरस्य जगतोजंगमस्यच गोपाः गोपायिता । किंकुर्वन् मर्तेषु मनुष्येषु स्थितानि ऋजु ऋजूनि सुकृतानि वृजिना वृजिनानि पापानि च पश्यन् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः