मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६०, ऋक् ४

संहिता

उद्वां॑ पृ॒क्षासो॒ मधु॑मन्तो अस्थु॒रा सूर्यो॑ अरुहच्छु॒क्रमर्ण॑ः ।
यस्मा॑ आदि॒त्या अध्व॑नो॒ रद॑न्ति मि॒त्रो अ॑र्य॒मा वरु॑णः स॒जोषा॑ः ॥

पदपाठः

उत् । वा॒म् । पृ॒क्षासः॑ । मधु॑ऽमन्तः । अ॒स्थुः॒ । आ । सूर्यः॑ । अ॒रु॒ह॒त् । शु॒क्रम् । अर्णः॑ ।
यस्मै॑ । आ॒दि॒त्याः । अध्व॑नः । रद॑न्ति । मि॒त्रः । अ॒र्य॒मा । वरु॑णः । स॒ऽजोषाः॑ ॥

सायणभाष्यम्

हे मित्रावरुणौ वां युवयोरर्थाय पृक्षासोन्नानि चरुपुरोडाशादीनि मधुमन्तोमाधुर्योपेतानि तत्साधनान्योषध्यादीनिवा उदस्थुः संपादिता- न्यासन् सूर्यश्च शुक्रं दीप्तं अर्णः अर्णवमन्तरिक्षं आरुहत् आरोहति यस्मै सूर्याय तद्गमनार्थमादित्याअदितेः पुत्रादेवा अध्वनोमार्गान् रदन्ति विलिखन्ति साधयन्ति । के ते मित्रः अर्यमा वरुणश्चैते त्रयोपि देवाः सजोषसः समानप्रीतयः सन्तः सदेव आरुहदिति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः