मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६०, ऋक् ५

संहिता

इ॒मे चे॒तारो॒ अनृ॑तस्य॒ भूरे॑र्मि॒त्रो अ॑र्य॒मा वरु॑णो॒ हि सन्ति॑ ।
इ॒म ऋ॒तस्य॑ वावृधुर्दुरो॒णे श॒ग्मासः॑ पु॒त्रा अदि॑ते॒रद॑ब्धाः ॥

पदपाठः

इ॒मे । चे॒तारः॑ । अनृ॑तस्य । भूरेः॑ । मि॒त्रः । अ॒र्य॒मा । वरु॑णः । हि । सन्ति॑ ।
इ॒मे । ऋ॒तस्य॑ । व॒वृ॒धुः॒ । दु॒रो॒णे । श॒ग्मासः॑ । पु॒त्राः । अदि॑तेः । अद॑ब्धाः ॥

सायणभाष्यम्

इमे मित्रःअर्यमा वरुणश्च त्रयोपि अनृतस्य पापस्य भूरेः प्रभूतस्य चेतारोहन्तारः सन्ति भवन्ति हि इमे मित्रादय ऋतस्य यज्ञस्य दुरोणे गृहे ववृधुः बर्धन्ते हविषा स्तुत्याच कीदृशास्ते शग्मासः सुखकराः अदितेः पुत्राः अदब्धा अहिंसिताः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः