मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६०, ऋक् ६

संहिता

इ॒मे मि॒त्रो वरु॑णो दू॒ळभा॑सोऽचे॒तसं॑ चिच्चितयन्ति॒ दक्षै॑ः ।
अपि॒ क्रतुं॑ सु॒चेत॑सं॒ वत॑न्तस्ति॒रश्चि॒दंहः॑ सु॒पथा॑ नयन्ति ॥

पदपाठः

इ॒मे । मि॒त्रः । वरु॑णः । दुः॒ऽदभा॑सः । अ॒चे॒तस॑म् । चि॒त् । चि॒त॒य॒न्ति॒ । दक्षैः॑ ।
अपि॑ । क्रतु॑म् । सु॒चेत॑सम् । वत॑न्तः । ति॒रः । चि॒त् । अंहः॑ । सु॒ऽपथा॑ । न॒य॒न्ति॒ ॥

सायणभाष्यम्

इमे आदित्याः मित्रोवरुणश्च एतत् द्वयं अर्यम्णोप्युपलक्षणं एते दूळभासः कुर्लभाः अनभिभाव्याः अचेतसञ्चित् अप्रज्ञानं अनुष्ठानवि- षयज्ञानरहितमपि दक्षैः सामर्थ्यैः चितयन्ति अपि सुचेतसं प्रकृष्टज्ञानवन्तं पुरुषं क्रतुं कर्तारं कर्मानुष्ठानवन्तं वतन्तः गच्छन्तः अंहोदु- ष्कृतं तिरश्चित् तिरोनयन्तोस्मान् सुपथा शोभनमार्गेण नयन्ति प्रापयन्ति अभिमतं यज्ञं स्वर्गादिकं वा ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः