मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६०, ऋक् ७

संहिता

इ॒मे दि॒वो अनि॑मिषा पृथि॒व्याश्चि॑कि॒त्वांसो॑ अचे॒तसं॑ नयन्ति ।
प्र॒व्रा॒जे चि॑न्न॒द्यो॑ गा॒धम॑स्ति पा॒रं नो॑ अ॒स्य वि॑ष्पि॒तस्य॑ पर्षन् ॥

पदपाठः

इ॒मे । दि॒वः । अनि॑ऽमिषा । पृ॒थि॒व्याः । चि॒कि॒त्वांसः॑ । अ॒चे॒तस॑म् । न॒य॒न्ति॒ ।
प्र॒ऽव्रा॒जे । चि॒त् । न॒द्यः॑ । गा॒धम् । अ॒स्ति॒ । पा॒रम् । नः॒ । अ॒स्य । वि॒ष्पि॒तस्य॑ । प॒र्ष॒न् ॥

सायणभाष्यम्

इमे मित्रादयोदिवोद्युलोकस्य पृथिव्याश्च संबन्धिनः अनिमिषा अनिमिषेण सर्वदा चिकित्वांसोजानन्तः कं अचेतसं अज्ञानं नयन्ति प्रापयन्ति कर्माणि प्रव्राजेचित् प्रवणेपि अत्यन्तनिम्नेपि देशे न्द्योनद्याः गाधमस्ति भवति युष्मत्सामर्थ्यात् ते महान्तोनोस्माकं अस्य विष्पितस्य व्यापितस्य कर्मणः पारं पर्षन् पारयन्तु नयन्तु ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः