मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६०, ऋक् ८

संहिता

यद्गो॒पाव॒ददि॑ति॒ः शर्म॑ भ॒द्रं मि॒त्रो यच्छ॑न्ति॒ वरु॑णः सु॒दासे॑ ।
तस्मि॒न्ना तो॒कं तन॑यं॒ दधा॑ना॒ मा क॑र्म देव॒हेळ॑नं तुरासः ॥

पदपाठः

यत् । गो॒पाव॑त् । अदि॑तिः । शर्म॑ । भ॒द्रम् । मि॒त्रः । यच्छ॑न्ति । वरु॑णः । सु॒ऽदासे॑ ।
तस्मि॑न् । आ । तो॒कम् । तन॑यम् । दधा॑नाः । मा । क॒र्म॒ । दे॒व॒ऽहेळ॑नम् । तु॒रा॒सः॒ ॥

सायणभाष्यम्

यच्छर्मसुखं गृहं वा गोपावत् रक्षणोपेतं भद्रं स्तुत्यं अदितिरदिनोर्यमा अदितिवा मित्रोवरुणश्चैतेत्रयोदेवाः सुदासे सुदानाय मह्यं यच्छ- न्ति प्रयच्छन्ति तस्मिन् शर्मणि तोकं पुत्रं तनयं तत्पुत्रादिकं अथवा तनयशब्दोपत्यसामान्यवचनः तोकं बलवन्तं पुत्रं आसर्वतोदधानाः धारयन्तोवयं हे तुरासोगमनाय त्वरमाणाः देवहेळनं देवानां मित्रादीनां कोपनं मा कर्म मा कार्ष्म ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः