मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६०, ऋक् १०

संहिता

स॒स्वश्चि॒द्धि समृ॑तिस्त्वे॒ष्ये॑षामपी॒च्ये॑न॒ सह॑सा॒ सह॑न्ते ।
यु॒ष्मद्भि॒या वृ॑षणो॒ रेज॑माना॒ दक्ष॑स्य चिन्महि॒ना मृ॒ळता॑ नः ॥

पदपाठः

स॒स्वरिति॑ । चि॒त् । हि । सम्ऽऋ॑तिः । त्वे॒षी । ए॒षा॒म् । अ॒पी॒च्ये॑न । सह॑सा । सह॑न्ते ।
यु॒ष्मत् । भि॒या । वृ॒ष॒णः॒ । रेज॑मानाः । दक्ष॑स्य । चि॒त् । म॒हि॒ना । मृ॒ळत॑ । नः॒ ॥

सायणभाष्यम्

एषां मित्रादीनांसमृतिः संगतिः संहतिर्वा सस्वः अन्तार्हिता निगूढा त्वेषी दीप्ताच भवति तादृशाएते अपीच्येन एतदप्यन्तर्हितनाम निगूढेन सहसा बलेन सहन्ते अभि भवन्ति अस्मद्वेष्टृन् । किञ्च हे वृषणोभिमतवर्षकामित्रादयो युष्मद्युषमत्तोभिया भीत्या रेजमानाः कंपमानाभवन्ति विरोधिनः । यस्मादेवं तस्माद्दक्षस्य युष्माकं बलस्य महिना महिम्ना महत्त्वेन नोस्मभ्यं मृळत उपदयां कुरुत चिद्धि- पूरणौ ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः