मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६१, ऋक् १

संहिता

उद्वां॒ चक्षु॑र्वरुण सु॒प्रती॑कं दे॒वयो॑रेति॒ सूर्य॑स्तत॒न्वान् ।
अ॒भि यो विश्वा॒ भुव॑नानि॒ चष्टे॒ स म॒न्युं मर्त्ये॒ष्वा चि॑केत ॥

पदपाठः

उत् । वा॒म् । चक्षुः॑ । व॒रु॒णा॒ । सु॒ऽप्रती॑कम् । दे॒वयोः॑ । ए॒ति॒ । सूर्यः॑ । त॒त॒न्वान् ।
अ॒भि । यः । विश्वा॑ । भुव॑नानि । च॒ष्टे॒ । सः । म॒न्युम् । मर्त्ये॑षु । आ । चि॒के॒त॒ ॥

सायणभाष्यम्

हे वरुणा मित्रावरुणौ देवयोर्द्योतमानयोर्वां युवयोश्चक्षुः प्रकाशकं तेजः सुप्रतीकं शोभनरूपं एवं रूपः सूर्यः ततन्वान् तेजोविस्तारयन्नु- देति उद्गच्छति अथोदितोयोदेवोविश्वा सर्वाणि भुवनानि भूतजातानि अभिचष्टे अभिपश्यति सदेवोमर्त्येषु प्रवृत्तं मन्युं स्तोत्रं कर्म वा आचिकेत आजानाति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः