मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६१, ऋक् २

संहिता

प्र वां॒ स मि॑त्रावरुणावृ॒तावा॒ विप्रो॒ मन्मा॑नि दीर्घ॒श्रुदि॑यर्ति ।
यस्य॒ ब्रह्मा॑णि सुक्रतू॒ अवा॑थ॒ आ यत्क्रत्वा॒ न श॒रदः॑ पृ॒णैथे॑ ॥

पदपाठः

प्र । वा॒म् । सः । मि॒त्रा॒व॒रु॒णौ॒ । ऋ॒तऽवा॑ । विप्रः॑ । मन्मा॑नि । दी॒र्घ॒ऽश्रुत् । इ॒य॒र्ति॒ ।
यस्य॑ । ब्रह्मा॑णि । सु॒क्र॒तू॒ इति॑ सुऽक्रतू । अवा॑थः । आ । यत् । क्रत्वा॑ । न । श॒रदः॑ । पृ॒णैथे॒ इति॑ ॥

सायणभाष्यम्

हे मित्रावरुणौ वां युवयोर्मन्मानि मननीयानि स्तोत्राणि सः प्रसिद्धः विप्रोमेधावी ऋतवा यज्ञवान् दीर्घश्रुत् चिरकालं श्रोता एवमुक्त- लक्षणोवसिष्ठः प्रेयर्ति प्रेरयति यस्य ऋषेः ब्रह्माणि परिवृढानि स्तोत्राणि हे सुक्रतू शोभनकर्माणौ अवाथोरक्षथः यत्क्रत्वा न कर्म शरदोबहून्संवत्सरान् आपृणैथे आपूरयेथे सउदियर्ति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः