मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६१, ऋक् ४

संहिता

शंसा॑ मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ शुष्मो॒ रोद॑सी बद्बधे महि॒त्वा ।
अय॒न्मासा॒ अय॑ज्वनाम॒वीरा॒ः प्र य॒ज्ञम॑न्मा वृ॒जनं॑ तिराते ॥

पदपाठः

शंस॑ । मि॒त्रस्य॑ । वरु॑णस्य । धाम॑ । शुष्मः॑ । रोद॑सी॒ इति॑ । ब॒द्ब॒धे॒ । म॒हि॒ऽत्वा ।
अय॑न् । मासाः॑ । अय॑ज्वनाम् । अ॒वीराः॑ । प्र । य॒ज्ञऽम॑न्मा । वृ॒जन॑म् । ति॒रा॒ते॒ ॥

सायणभाष्यम्

हे ऋषे मित्रस्य वरुणस्य च धाम तेजः स्थानं शंस स्तुहि ययोर्देवयोः शुष्मोबलंरोदसी द्यावापृथिव्यौ सहवर्तमाने महित्वा स्वमहत्त्वेन बद्बधे बध्नाति पृथक्स्थापयति इयं पृथिवी इयं द्यौरिति पृथक्करोति द्यावापृथिवीसहास्तामितिश्रुतेः । अयज्वनांअननुष्ठातॄणां मासाः कालावयवाः अवीराअपुत्राएवायन् यन्तु गच्छन्तु तद्विप्ररीतो यज्ञमन्मा यज्ञार्थं मतिमान् यज्वा वृजनं बलं प्रतिराते प्रवर्धयतु प्रपूर्वस्तिरतिर्वर्धनार्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः