मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६१, ऋक् ६

संहिता

समु॑ वां य॒ज्ञं म॑हयं॒ नमो॑भिर्हु॒वे वां॑ मित्रावरुणा स॒बाधः॑ ।
प्र वां॒ मन्मा॑न्यृ॒चसे॒ नवा॑नि कृ॒तानि॒ ब्रह्म॑ जुजुषन्नि॒मानि॑ ॥

पदपाठः

सम् । ऊं॒ इति॑ । वा॒म् । य॒ज्ञम् । म॒ह॒य॒म् । नमः॑ऽभिः । हु॒वे । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । स॒ऽबाधः॑ ।
प्र । वा॒म् । मन्मा॑नि । ऋ॒चसे॑ । नवा॑नि । कृ॒तानि॑ । ब्रह्म॑ । जु॒जु॒ष॒न् । इ॒मानि॑ ॥

सायणभाष्यम्

हे मित्रावरुणौ वां युवयोर्यज्ञं नमोभिर्नमस्कारैः स्तुतिभिः समुमहयं संपूजयाम्यहं तदर्थं हे मित्रावरुणा मित्रारुवणौ वां सबाधोबाधा- युक्तोहं हुवे आह्वयामि बाधापरिहाराय वां युवां ऋचसे सेवितुं नवानि नूतनानि स्तुत्यानि वा मन्मानि स्तोत्राणि प्रभवत्न्वित्यध्याहारः कृतानि मया समूहीकृतानि इमानीदानीं क्रियमाणानि ब्रह्म परिवृढानि स्तोत्राणि युवां जुजुषन् प्रीणयन्तु ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः