मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६१, ऋक् ७

संहिता

इ॒यं दे॑व पु॒रोहि॑तिर्यु॒वभ्यां॑ य॒ज्ञेषु॑ मित्रावरुणावकारि ।
विश्वा॑नि दु॒र्गा पि॑पृतं ति॒रो नो॑ यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

इ॒यम् । दे॒व॒ । पु॒रःऽहि॑तिः । यु॒वऽभ्या॑म् । य॒ज्ञेषु॑ । मि॒त्रा॒व॒रु॒णौ॒ । अ॒का॒रि॒ ।
विश्वा॑नि । दुः॒ऽगा । पि॒पृ॒त॒म् । ति॒रः । नः॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

इयंदेतेतिसप्तमीगता ॥ ७ ॥

उत्सूर्यइति षळृचं सप्तमं सूक्तं अत्रानुक्रमणिका-उत्सूर्यः षळाद्यास्तिस्रः सौर्यइति वसिष्ठऋषिः त्रिष्टुप् छन्दः आद्यास्तिस्रः सूर्यदेवत्याः शिष्टामित्रावरुणदेवत्याः सूक्तविनियोगोलैङ्गिकः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः