मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६२, ऋक् २

संहिता

स सू॑र्य॒ प्रति॑ पु॒रो न॒ उद्गा॑ ए॒भिः स्तोमे॑भिरेत॒शेभि॒रेवै॑ः ।
प्र नो॑ मि॒त्राय॒ वरु॑णाय वो॒चोऽना॑गसो अर्य॒म्णे अ॒ग्नये॑ च ॥

पदपाठः

सः । सू॒र्य॒ । प्रति॑ । पु॒रः । नः॒ । उत् । गाः॒ । ए॒भिः । स्तोमे॑भिः । ए॒त॒शेभिः॑ । एवैः॑ ।
प्र । नः॒ । मि॒त्राय॑ । वरु॑णाय । वो॒चः॒ । अना॑गसः । अ॒र्य॒म्णे । अ॒ग्नये॑ । च॒ ॥

सायणभाष्यम्

हे सूर्य सः प्रसिद्धस्त्वं नोस्मान् प्रति पुरः पुरस्तात् उद्गाः उद्गच्छ कैः सधनैः एभिः स्तोमेभिः स्तोमैः स्तुत्यैः एतशेभिः एतवर्णैः स्वार्थिकः शकारः । या जरन्ता युवशा ता । पुरुषः कृष्णशवास्युत्तरतइत्यादिवत् । तादृशैः एवैर्गमनशीलैरश्वैरुद्गाः अथ तथा कृत्वा अस्माभिः स्तुतः सन् नोस्मान् अनागसः अपापान् प्रवोचः केभ्यः मित्राय वरुणायार्यम्णे अग्नये च । अत्र सौर्ये इतरेषां मित्रादीनां संकीर्तनं तेषामपि निपातभाक् त्वादविरुद्धं एवंपूर्वोत्तरत्रच मैत्रावरुणेर्यमादीनांसंकीर्तनमपि न विरुध्यते ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः