मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६२, ऋक् ३

संहिता

वि नः॑ स॒हस्रं॑ शु॒रुधो॑ रदन्त्वृ॒तावा॑नो॒ वरु॑णो मि॒त्रो अ॒ग्निः ।
यच्छ॑न्तु च॒न्द्रा उ॑प॒मं नो॑ अ॒र्कमा न॒ः कामं॑ पूपुरन्तु॒ स्तवा॑नाः ॥

पदपाठः

वि । नः॒ । स॒हस्र॑म् । शु॒रुधः॑ । र॒द॒न्तु॒ । ऋ॒तऽवा॑नः । वरु॑णः । मि॒त्रः । अ॒ग्निः ।
यच्छ॑न्तु । च॒न्द्राः । उ॒प॒ऽमम् । नः॒ । अ॒र्कम् । आ । नः॒ । काम॑म् । पू॒पु॒र॒न्तु॒ । स्तवा॑नाः ॥

सायणभाष्यम्

नोस्मभ्यं शुरुधः शुचेर्दुःखस्य प्रतिरोद्धारः ऋतावानः सत्यवन्तोवरुणादयः सहस्रं सहस्रसंख्याकं धनं विरदन्तु वितरन्तु अथवा शुरुध- उक्तलक्षणाः सहस्रसङ्ख्याकाः ओषधीरदन्तु । किञ्च ते चन्द्राः आह्लादकारिणो नोस्मभ्यं उपमं स्तुत्यं अर्कमर्चनीयं यच्छन्तु । किंच स्तवाना अस्माभिः स्तूयमानानोस्माकं काममपेक्षितं पूपुरन्तु पूरयन्तु । हे सूर्य त्वया अनुज्ञाताइति सूर्यस्य स्तुतिः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः