मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६२, ऋक् ४

संहिता

द्यावा॑भूमी अदिते॒ त्रासी॑थां नो॒ ये वां॑ ज॒ज्ञुः सु॒जनि॑मान ऋष्वे ।
मा हेळे॑ भूम॒ वरु॑णस्य वा॒योर्मा मि॒त्रस्य॑ प्रि॒यत॑मस्य नृ॒णाम् ॥

पदपाठः

द्यावा॑भूमी॒ इति॑ । अ॒दि॒ते॒ । त्रासी॑थाम् । नः॒ । ये । वा॒म् । ज॒ज्ञुः । सु॒ऽजनि॑मानः । ऋ॒ष्वे॒ इति॑ ।
मा । हेळे॑ । भू॒म॒ । वरु॑णस्य । वा॒योः । मा । मि॒त्रस्य॑ । प्रि॒यऽत॑मस्य । नृ॒णाम् ॥

सायणभाष्यम्

हे द्यावाभूमी द्यावापृथिव्यौ हे अदिते अखण्डनीये एतत् द्यावाभूम्योरेवैकवचनेन संबोधनं हे ऋष्वे महन्नामैतत् हे महत्यौ नोस्मान् त्रासीथां रक्षतम् । ये वयं सुजनिमानः शोभनजन्मानोवां युवां जज्ञुः ज्ञातवन्तः स्म । किञ्च वयं वरुणस्य हेळे क्रोधे माभूम तथा वायोर्माभूम तथा नृणां स्तुतिनेतॄणां मनुष्याणां प्रियतमस्य मित्रस्य हेळे माभूम ॥ ४ ॥ प्रबाहवेति पञ्चमी मैत्रावरुणे पशौ पुरोडाशस्य याज्या सूत्रितंच-प्रबाहवासिसृतंजीवसेनोयद्बंहिष्ठंनातिविधेसुदानूइति । तत्पाठस्तु ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः