मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६२, ऋक् ५

संहिता

प्र बा॒हवा॑ सिसृतं जी॒वसे॑ न॒ आ नो॒ गव्यू॑तिमुक्षतं घृ॒तेन॑ ।
आ नो॒ जने॑ श्रवयतं युवाना श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मा ॥

पदपाठः

प्र । बा॒हवा॑ । सि॒सृ॒त॒म् । जी॒वसे॑ । नः॒ । आ । नः॒ । गव्यू॑तिम् । उ॒क्ष॒त॒म् । घृ॒तेन॑ ।
आ । नः॒ । जने॑ । श्र॒व॒य॒त॒म् । यु॒वा॒ना॒ । श्रु॒तम् । मे॒ । मि॒त्रा॒व॒रु॒णा॒ । हवा॑ । इ॒मा ॥

सायणभाष्यम्

हे मित्रावरुणा मित्रावरुणौ देवौ बाहवा युवाभ्यां बाहू प्रसिसृतं प्रसारयतं हविः स्वीकाराय धनप्रदानायवा । किमर्थमिति नोजीवसे अस्माकं जीवनाय किञ्च नोस्माकं गव्यूतिं गावोयन्ति गच्छंति अत्रेति गव्यूतिर्गोमार्गभूमिः तां तृणादिप्ररोहाय घृतेनोदकेन आसमन्तात् उक्षतं सिञ्चतं किञ्च नोस्मान् जने अस्मत्समाने मनुष्यसमूहे वा नोस्मान् आश्रवयतं विश्रुतं कुरुतम् । हे युवाना नित्ययौवनौ सर्वत्रव्याप्तौ वा युवां मे मम इमा इमानि हवा आह्वानानि श्रुतं श्रृणुतम् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः