मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६३, ऋक् १

संहिता

उद्वे॑ति सु॒भगो॑ वि॒श्वच॑क्षा॒ः साधा॑रण॒ः सूर्यो॒ मानु॑षाणाम् ।
चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्य दे॒वश्चर्मे॑व॒ यः स॒मवि॑व्य॒क्तमां॑सि ॥

पदपाठः

उत् । ऊं॒ इति॑ । ए॒ति॒ । सु॒ऽभगः॑ । वि॒श्वऽच॑क्षाः । साधा॑रणः । सूर्यः॑ । मानु॑षाणाम् ।
चक्षुः॑ । मि॒त्रस्य॑ । वरु॑णस्य । दे॒वः । चर्म॑ऽइव । यः । स॒म्ऽअवि॑व्यक् । तमां॑सि ॥

सायणभाष्यम्

उद्वेति उद्गच्छत्ययंसूर्यः सुभगः शोभनभाग्यः सुष्ठु भजनीयोवा विश्वचक्षाः सर्वस्यद्रष्टा मानुषाणां सर्वेषां मनुष्याणां साधारणः साधा- रणत्वप्रतिपादकश्रुतिः पूर्वमुदाहृता मित्रस्य वरुणस्य च चक्षुः प्रकाशकः देवोद्योतमानः योदेवश्चर्मेव चर्माणीव तमांसि समविव्यक् सह विचति संवेष्टयति समहानुभावोदेवः उद्वेति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः