मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६३, ऋक् ३

संहिता

वि॒भ्राज॑मान उ॒षसा॑मु॒पस्था॑द्रे॒भैरुदे॑त्यनुम॒द्यमा॑नः ।
ए॒ष मे॑ दे॒वः स॑वि॒ता च॑च्छन्द॒ यः स॑मा॒नं न प्र॑मि॒नाति॒ धाम॑ ॥

पदपाठः

वि॒ऽभ्राज॑मानः । उ॒षसा॑म् । उ॒पऽस्था॑त् । रे॒भैः । उत् । ए॒ति॒ । अ॒नु॒ऽम॒द्यमा॑नः ।
ए॒षः । मे॒ । दे॒वः । स॒वि॒ता । च॒च्छ॒न्द॒ । यः । स॒मा॒नम् । न । प्र॒ऽमि॒नाति॑ । धाम॑ ॥

सायणभाष्यम्

अयं सूर्योविभ्राजमानोविशेषेणदीप्यमानः उषसामुपस्थात् उपस्थे मध्ये रेभैः स्तोतृभिरनुमद्यमानः सन्नुदेति किञ्च एषदेवोद्योतमानः सविता मे ह्यं चच्छन्द उपच्छन्दयति कामान् । एषइत्युक्तं कइति योदेवः समानं सर्वेषां प्राणिनामेकरूपं धाम स्वीयं तेजः स्थानं न प्रमिनाति नहिनस्ति न संकोचयति सदेवउदेतीति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः