मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६३, ऋक् ४

संहिता

दि॒वो रु॒क्म उ॑रु॒चक्षा॒ उदे॑ति दू॒रेअ॑र्थस्त॒रणि॒र्भ्राज॑मानः ।
नू॒नं जना॒ः सूर्ये॑ण॒ प्रसू॑ता॒ अय॒न्नर्था॑नि कृ॒णव॒न्नपां॑सि ॥

पदपाठः

दि॒वः । रु॒क्मः । उ॒रु॒ऽचक्षाः॑ । उत् । ए॒ति॒ । दू॒रेऽअ॑र्थः । त॒रणिः॑ । भ्राज॑मानः ।
नू॒नम् । जनाः॑ । सूर्ये॑ण । प्रऽसू॑ताः । अय॑न् । अर्था॑नि । कृ॒णव॑न् । अपां॑सि ॥

सायणभाष्यम्

अयं सूर्योरुक्मोरोचमानः उरुचक्षाः प्रभूततेजाश्चसन् दिवोन्तरिक्षादुदेति यद्वा दिवोन्तरिक्षस्य रुक्मआभरणस्थानीयः कीदृशोयं दूरेअर्थः दुरेगन्ता अर्थोर्तेः दुरे प्रार्थ्यमानोवा तरणिस्तारकः भ्राजमानोदीप्यमानः सन्नुदेति नूनं निश्चयं जनाः सर्वे प्राणिनः सूर्येण प्रेरकेण देवेन प्रसूताः अनुज्ञाताः प्रेरिताः सन्तःअयन् अर्थानि गंतव्यानि अनुष्ठेयानि अपांसि कर्माणि कृणवन् कुर्वन्ति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः