मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६३, ऋक् ५

संहिता

यत्रा॑ च॒क्रुर॒मृता॑ गा॒तुम॑स्मै श्ये॒नो न दीय॒न्नन्वे॑ति॒ पाथः॑ ।
प्रति॑ वां॒ सूर॒ उदि॑ते विधेम॒ नमो॑भिर्मित्रावरुणो॒त ह॒व्यैः ॥

पदपाठः

यत्र॑ । च॒क्रुः । अ॒मृताः॑ । गा॒तुम् । अ॒स्मै॒ । श्ये॒नः । न । दीय॑न् । अनु॑ । ए॒ति॒ । पाथः॑ ।
प्रति॑ । वा॒म् । सूरे॑ । उत्ऽइ॑ते । वि॒धे॒म॒ । नमः॑ऽभिः । मि॒त्रा॒व॒रु॒णा॒ । उ॒त । ह॒व्यैः ॥

सायणभाष्यम्

यत्र यस्मिन्नन्तरिक्षे अमृता अमरणधर्माणः पूर्वेदेवा अस्मै सूर्याय गातुं मार्गं चक्रुः अकुर्वन् तत्पाथोन्तरिक्षं अन्वेति अनुगच्छति कइव दीयन् गच्छन् श्येनोन शंसनीयगमनोगृध्रइव अयमर्धर्चः सौर्यइत्युक्तम् हे मित्रावरुणा मित्रावरुणौ वां युवां सूरे सूर्ये उदिते सति प्रातःसवने नमोभिर्नमस्कारैः स्तुतिभिः उतापिच हव्यैः हविर्भिश्च प्रतिविधेम परिचरेम ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः