मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६३, ऋक् ६

संहिता

नू मि॒त्रो वरु॑णो अर्य॒मा न॒स्त्मने॑ तो॒काय॒ वरि॑वो दधन्तु ।
सु॒गा नो॒ विश्वा॑ सु॒पथा॑नि सन्तु यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

नु । मि॒त्रः । वरु॑णः । अ॒र्य॒मा । नः॒ । त्मने॑ । तो॒काय॑ । वरि॑वः । द॒ध॒न्तु॒ ।
सु॒ऽगा । नः॒ । विश्वा॑ । सु॒ऽपथा॑नि । स॒न्तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

नुमित्रइतिषष्ठीगता ॥ ६ ॥

दिविक्षयन्तेति पंचर्चं नवमं सूक्तं वसिष्ठस्यार्षं मैत्रावरुणम् । दिविपंचेत्यनुक्रमणिका । तृतीयेछन्दोमे प्रउगशस्त्रे आद्यस्तृचोमैत्रा- वरुणस्य सूत्रितं च-द्विविक्षयन्तारजसः पृथिव्या माविश्ववाराश्विनागतंनइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः