मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६४, ऋक् १

संहिता

दि॒वि क्षय॑न्ता॒ रज॑सः पृथि॒व्यां प्र वां॑ घृ॒तस्य॑ नि॒र्णिजो॑ ददीरन् ।
ह॒व्यं नो॑ मि॒त्रो अ॑र्य॒मा सुजा॑तो॒ राजा॑ सुक्ष॒त्रो वरु॑णो जुषन्त ॥

पदपाठः

दि॒वि । क्षय॑न्ता । रज॑सः । पृ॒थि॒व्याम् । प्र । वा॒म् । घृ॒तस्य॑ । निः॒ऽनिजः॑ । द॒दी॒र॒न् ।
ह॒व्यम् । नः॒ । मि॒त्रः । अ॒र्य॒मा । सुऽजा॑तः । राजा॑ । सु॒ऽक्ष॒त्रः । वरु॑णः । जु॒ष॒न्त॒ ॥

सायणभाष्यम्

दिवि द्युलोकेन्तरिक्षे पृथिव्यांच वर्तमानस्य रजसः उदकस्य क्षयन्ता क्षयतिरैश्वर्यकर्मा स्वामिनौ भवथः हे मित्रावरुणौ वां युवाभ्यां प्रेरितामेघाःघृतस्यनिर्णिजः उदकस्यरूपाणिददीरन् ददते प्रयच्छन्ति अथवा वां युवाभ्यां घृतस्य निर्णिजः रूपाणि घृतानीत्यर्थः तानि ददीरन् दीयन्ते नोस्माकं संबन्धि हव्यं मित्रः सुजातः सुष्ठुप्रादुर्भूतः अर्यमाराजा सर्वस्य स्वामी सुक्षत्रः शोभनबलोवरुणश्चैते जुषन्त सेवन्ताम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः