मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६४, ऋक् २

संहिता

आ रा॑जाना मह ऋतस्य गोपा॒ सिन्धु॑पती क्षत्रिया यातम॒र्वाक् ।
इळां॑ नो मित्रावरुणो॒त वृ॒ष्टिमव॑ दि॒व इ॑न्वतं जीरदानू ॥

पदपाठः

आ । रा॒जा॒ना॒ । म॒हः॒ । ऋ॒त॒स्य॒ । गो॒पा॒ । सिन्धु॑पती॒ इति॒ सिन्धु॑ऽपती । क्ष॒त्रि॒या॒ । या॒त॒म् । अ॒र्वाक् ।
इळा॑म् । नः॒ । मि॒त्रा॒व॒रु॒णा॒ । उ॒त । वृ॒ष्टिम् । अव॑ । दि॒वः । इ॒न्व॒त॒म् । जी॒र॒दा॒नू॒ इति॑ जीरऽदानू ॥

सायणभाष्यम्

हे राजाना सर्वस्यस्वामिनौ हे महोमहत ऋतस्योदकस्य यज्ञस्य गोपा गोपायितारौ सुबामन्त्रितेपराङ्गवत्स्वरेइति पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्य निघातत्वम् । हे सिन्धुपती नद्याः पालयितारौ हे क्षत्रिया बलवन्तौ युवां अर्वागस्मदभिमुखं आयातमागच्छ- तम् । किंच हे मित्रावरुणा मित्रावरुणौ हे जीरदानू क्षिप्रदानौ युवां नोस्मभ्यं इळामन्नं उतापिच पुष्टिं तत्साधकां वृष्टिं च दिवोन्तरि- क्षात् अव अवस्तात् इन्वतं प्रेरयतम् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः