मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६४, ऋक् ३

संहिता

मि॒त्रस्तन्नो॒ वरु॑णो दे॒वो अ॒र्यः प्र साधि॑ष्ठेभिः प॒थिभि॑र्नयन्तु ।
ब्रव॒द्यथा॑ न॒ आद॒रिः सु॒दास॑ इ॒षा म॑देम स॒ह दे॒वगो॑पाः ॥

पदपाठः

मि॒त्रः । तत् । नः॒ । वरु॑णः । दे॒वः । अ॒र्यः । प्र । साधि॑ष्ठेभिः । प॒थिऽभिः॑ । न॒य॒न्तु॒ ।
ब्रव॑त् । यथा॑ । नः॒ । आत् । अ॒रिः । सु॒ऽदासे॑ । इ॒षा । म॒दे॒म॒ । स॒ह । दे॒वऽगो॑पाः ॥

सायणभाष्यम्

मित्रोवरुणोदेवोर्योर्यमा चैते त्रयोपि नोस्मान् तत् तदा यदास्माकं अपेक्षितं तदा साधिष्ठेभिः साधकतमैः पथिभिर्मार्गैः प्रणयन्तु किंच नोस्मान् सुदासे शोभनदानाय जनाय अरिरर्यमा यथा ब्रवत् असौ अनुकंप्यइति ब्रूयात् तथा कुर्वन्तु अर्यम्णः पुनरभिधानमादरार्थं देवगोपाः देवायूयं गोपायितारोयेषामस्माकं ते वयं इषा युष्माभिर्दातव्येनान्नेन सह पुत्रादिसहिता मदेम हृष्येम ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः