मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६४, ऋक् ४

संहिता

यो वां॒ गर्तं॒ मन॑सा॒ तक्ष॑दे॒तमू॒र्ध्वां धी॒तिं कृ॒णव॑द्धा॒रय॑च्च ।
उ॒क्षेथां॑ मित्रावरुणा घृ॒तेन॒ ता रा॑जाना सुक्षि॒तीस्त॑र्पयेथाम् ॥

पदपाठः

यः । वा॒म् । गर्त॑म् । मन॑सा । तक्ष॑त् । ए॒तम् । ऊ॒र्ध्वाम् । धी॒तिम् । कृ॒णव॑त् । धा॒रय॑त् । च॒ ।
उ॒क्षेथा॑म् । मि॒त्रा॒व॒रु॒णा॒ । घृ॒तेन॑ । ता । रा॒जा॒ना॒ । सु॒ऽक्षि॒तीः । त॒र्प॒ये॒था॒म् ॥

सायणभाष्यम्

हे मित्रावरुणौ योवां युवयोरेतं गर्तं रथं मनसा तक्षत् स्तोमेन संकल्पयेत् तथा कृत्वा ऊर्धां उन्नतां धीतिं कर्म स्तुतिरूपं कृणवत् कुर्यात् उज्वैः स्तुयात् एवं कृत्वा धारयञ्च यागे धारयेत् हे राजाना स्वामिनौ मित्रावरुणा मित्रावरुणौ ता तौ युवां जनं घृतेनोदकेन उक्षेथां सिंचतं तस्मै सुक्षितीः शोभननिवासाः प्रजाः तर्पयेथां यथा सुक्षितयोभवन्ति तथातर्पयेथामिति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः