मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६५, ऋक् ४

संहिता

आ नो॑ मित्रावरुणा ह॒व्यजु॑ष्टिं घृ॒तैर्गव्यू॑तिमुक्षत॒मिळा॑भिः ।
प्रति॑ वा॒मत्र॒ वर॒मा जना॑य पृणी॒तमु॒द्नो दि॒व्यस्य॒ चारो॑ः ॥

पदपाठः

आ । नः॒ । मि॒त्रा॒व॒रु॒णा॒ । ह॒व्यऽजु॑ष्टिम् । घृ॒तैः । गव्यू॑तिम् । उ॒क्ष॒त॒म् । इळा॑भिः ।
प्रति॑ । वा॒म् । अत्र॑ । वर॑म् । आ । जना॑य । पृ॒णी॒तम् । उ॒द्नः । दि॒व्यस्य॑ । चारोः॑ ॥

सायणभाष्यम्

हे मित्रावरुणा मित्रावरुणौ नोस्माकं हव्यजुष्टिं हविः सेवनवन्तं यज्ञं आगच्छतमितिशेषः आगत्य चेच्छाभिरन्नैः सह घृतैरुदकैर्गव्यू- तिमस्ममदीयां भूमिं उक्षतं सिञ्चतम् वां युवां प्रति अत्रास्मिन् लोके वरं उत्कृष्टं हविः स्तोत्रं वा कः आयच्छेदितिशेषः अतः केवलं कृपयैव जनाय दिव्यस्य दिविभवस्य चारोश्चरणीयस्य उद्गः उदकस्य कर्मणिषष्ठी उक्तलक्षणमुदकं पृणीतम् प्रयच्छतम् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः