मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६६, ऋक् १

संहिता

प्र मि॒त्रयो॒र्वरु॑णयो॒ः स्तोमो॑ न एतु शू॒ष्य॑ः ।
नम॑स्वान्तुविजा॒तयो॑ः ॥

पदपाठः

प्र । मि॒त्रयोः॑ । वरु॑णयोः । स्तोमः॑ । नः॒ । ए॒तु॒ । शू॒ष्यः॑ ।
नम॑स्वान् । तु॒वि॒ऽजा॒तयोः॑ ॥

सायणभाष्यम्

मित्रयोर्वरुणयोः मित्रावरुणयोरित्यर्थः उभयत्रप्रीतियोगापेक्षया द्विवचनत्वम् तुविजातयोः बहुप्रादुर्भावयोर्देवयोः नोस्मदीयः शूष्यः सुखकरोनमस्वानन्नवान् हविर्भिर्युक्तः स्तोमः स्तोत्रं प्रैतु गच्छतु अहोरात्रंवैमित्रावरुणावितिश्रुतिः । अनयोरहोरात्रापेक्षत्वात्तयोः पुनः- पुनरागमनादनयोस्तुविजातत्वम् अथवा बहूनामुपकारायानयोः प्रादुर्भावात्तुविजातत्वम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः